वांछित मन्त्र चुनें

ते हि द्यावा॑पृथि॒वी भूरि॑रेतसा॒ नरा॒शंस॒श्चतु॑रङ्गो य॒मोऽदि॑तिः । दे॒वस्त्वष्टा॑ द्रविणो॒दा ऋ॑भु॒क्षण॒: प्र रो॑द॒सी म॒रुतो॒ विष्णु॑रर्हिरे ॥

अंग्रेज़ी लिप्यंतरण

te hi dyāvāpṛthivī bhūriretasā narāśaṁsaś caturaṅgo yamo ditiḥ | devas tvaṣṭā draviṇodā ṛbhukṣaṇaḥ pra rodasī maruto viṣṇur arhire ||

पद पाठ

ते । हि । द्यावा॑पृथि॒वी इति॑ । भूरि॑ऽरेतसा । नरा॒शंसः॑ । चतुः॑ऽअङ्गः । य॒मः । अदि॑तिः । दे॒वः । त्वष्टा॑ । द्र॒वि॒णः॒ऽदाः । ऋ॒भु॒क्षणः॑ । प्र । रो॒द॒सी इति॑ । म॒रुतः॑ । विष्णुः॑ । अ॒र्हि॒रे॒ ॥ १०.९२.११

ऋग्वेद » मण्डल:10» सूक्त:92» मन्त्र:11 | अष्टक:8» अध्याय:4» वर्ग:25» मन्त्र:1 | मण्डल:10» अनुवाक:8» मन्त्र:11


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (ते हि भूरिरेतसा द्यावापृथिवी) वे ही बहुत सन्तान बीज शक्तिवाले माता-पिता (नराशंसः) मनुष्यों द्वारा प्रशंसनीय (चतुरङ्गः) चारों वेदों को जाननेवाला चतुर्वेदवित् (यमः) संयमी जितेन्द्रिय जन (अदितिः) अखण्डित बुद्धिवाला (त्वष्टा देवः) शिल्पी विद्वान् (द्रविणोदाः) धनदाता-दानी (ऋभुक्षणः) महान् सम्राट् (रोदसी) कुल या देश के शोधन करनेवाले-बाधकों का निवारण करनेवाले पुरोहित और रक्षक कर्मचारी या सैनिक प्रहरी (मरुतः) ऋत्विग्जन (विष्णुः) व्यापक परमात्मा, ये सब (प्र-अर्हिरे) पूजे जावें ॥११॥
भावार्थभाषाः - कुल में या देश में वीर्यशक्तिसम्पन्न स्त्री-पुरुष, प्रशंसनीय चारों वेदों का जाननेवाला जितेन्द्रिय, ब्रह्मचारी, प्रखर बुद्धिमान्, शिल्पी कलाकार, दानीजन, दुःखबाधानिवारक, समय-समय श्रेष्ठ कर्म करानेवाले तथा सर्वव्यापक परमात्मा पूजा के योग्य हैं ॥११॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (ते हि भूरिरेतसा द्यावापृथिवी) तौ हि बहुसन्तानबीजवन्तौ मातापितरौ “द्यौर्मे पिता……माता पृथिवी महीयम्……”  [ऋ० १।१६४।३३] (नराशंसः चतुरङ्गः) नरैः प्रशंसनीयः-चतुरो वेदानङ्गति जानाति चतुर्वेदवित् “अङ्गः-अङ्गति जानाति” [यजु० १०।३२ दयानन्दः] (यमः) संयमी जितेन्द्रियो जनः (अदितिः) अखण्डितप्रज्ञः “अदितिः अखण्डितबुद्धिः” [यजु० ३३।१६ दयानन्दः] (त्वष्टा देवः) शिल्पी विद्वान् (द्रविणोदाः) धनदाता-दानी (ऋभुक्षणः) महान् सम्राट् “ऋभुक्षा महन्नाम” [निघ० ३।३] ऋभुक्षा-उरुक्षयणाः-“ऋभूणां राजेति वा” [निरु० ९।१] (रोदसी) कुलस्य देशस्य वा रोधकर्तारौ बाधकानां निवारयितारौ “रोदसी रोधसी” [निरु० ६।१] (मरुतः) ऋत्विजः “मरुतः-ऋत्विङ्नाम” [निघ० ३।१८] (विष्णुः) व्यापकः परमात्मा, एते सर्वे (प्र-अर्हिरे) पूज्येरन् ॥११॥